Sree Vishnu Sahasra Nama Stotram in Hindi | श्री विष्णु सहस्र नाम स्तोत्रम.. Lyrics of Sree Vishnu Sahasra Nama Stotram in Hindi | श्री विष्णु सहस्र नाम स्तोत्रम
रचन: वेद व्यास
यस्यद्विरदवक्त्राद्याः पारिषद्याः परश्शतम् ।
विघ्नं निघ्नंति सततं विश्वक्सेनं तमाश्रये ॥ २ ॥
व्यासं वसिष्ठ नप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वंदे शुकतातं तपोनिधिम् ॥ ३ ॥
व्यासाय विष्णु रूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ४ ॥
अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैक रूप रूपाय विष्णवे सर्वजिष्णवे ॥ ५ ॥
यस्य स्मरणमात्रेण जन्म संसार बंधनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ६ ॥
ॐ नमो विष्णवे प्रभविष्णवे ।
श्री वैशंपायन उवाच
श्रुत्वा धर्मा नशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शांतनवं पुनरेवाभ्य भाषत ॥ ७ ॥
युधिष्ठिर उवाच
किमेकं दैवतं लोके किं वाஉप्येकं परायणं
स्तुवंतः कं कमर्चंतः प्राप्नुयुर्-मानवाः शुभम् ॥ ८ ॥
को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किं जपन्-मुच्यते जंतुर्-जन्मसंसार बंधनात् ॥ ९ ॥
श्री भीष्म उवाच
जगत्प्रभुं देवदेव मनंतं पुरुषोत्तमम् ।
स्तुवन्नाम सहस्रेण पुरुषः सततोत्थितः ॥ १० ॥
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥ ११ ॥
अनादि निधनं विष्णुं सर्वलोक महेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्व दुःखातिगो भवेत् ॥ १२ ॥
ब्रह्मण्यं सर्व धर्मज्ञं लोकानां कीर्ति वर्धनम् ।
लोकनाथं महद्भूतं सर्वभूत भवोद्भवम्॥ १३ ॥
एष मे सर्व धर्माणां धर्मोஉधिक तमोमतः ।
यद्भक्त्या पुंडरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ १४ ॥
परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्-ब्रह्म परमं यः परायणम् । १५ ॥
पवित्राणां पवित्रं यो मंगलानां च मंगलम् ।
दैवतं देवतानां च भूतानां योஉव्ययः पिता ॥ १६ ॥
यतः सर्वाणि भूतानि भवंत्यादि युगागमे ।
यस्मिंश्च प्रलयं यांति पुनरेव युगक्षये ॥ १७ ॥
तस्य लोक प्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नाम सहस्रं मे श्रुणु पाप भयापहम् ॥ १८ ॥
यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १९ ॥
ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ॥
छंदोஉनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ २० ॥
अमृतां शूद्भवो बीजं शक्तिर्देवकिनंदनः ।
त्रिसामा हृदयं तस्य शांत्यर्थे विनियुज्यते ॥ २१ ॥
विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ॥
अनेकरूप दैत्यांतं नमामि पुरुषोत्तमम् ॥ २२ ॥
पूर्वन्यासः
अस्य श्री विष्णोर्दिव्य सहस्रनाम स्तोत्र महामंत्रस्य ॥
श्री वेदव्यासो भगवान् ऋषिः ।
अनुष्टुप् छंदः ।
श्री महाविष्णुः परमात्मा श्रीमन्नारायणो देवता ।
अमृतां शूद्भवो भानुरिति बीजम् ।
देवकी नंदनः स्रष्टेति शक्तिः ।
उद्भवः, क्षोभणो देव इति परमोमंत्रः ।
शंखभृन्नंदकी चक्रीति कीलकम् ।
शार्ंगधन्वा गदाधर इत्यस्त्रम् ।
रथांगपाणि रक्षोभ्य इति नेत्रम् ।
त्रिसामासामगः सामेति कवचम् ।
आनंदं परब्रह्मेति योनिः ।
ऋतुस्सुदर्शनः काल इति दिग्बंधः ॥
श्री विश्वरूप इति ध्यानम् ।
श्री महाविष्णु प्रीत्यर्थे सहस्रनाम जपे विनियोगः ।
करन्यासः
विश्वं विष्णुर्वषट्कार इत्यंगुष्ठाभ्यां नमः
अमृतां शूद्भवो भानुरिति तर्जनीभ्यां नमः
ब्रह्मण्यो ब्रह्मकृत् ब्रह्मेति मध्यमाभ्यां नमः
सुवर्णबिंदु रक्षोभ्य इति अनामिकाभ्यां नमः
निमिषोஉनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः
रथांगपाणि रक्षोभ्य इति करतल करपृष्ठाभ्यां नमः
अंगन्यासः
सुव्रतः सुमुखः सूक्ष्म इति ज्ञानाय हृदयाय नमः
सहस्रमूर्तिः विश्वात्मा इति ऐश्वर्याय शिरसे स्वाहा
सहस्रार्चिः सप्तजिह्व इति शक्त्यै शिखायै वषट्
त्रिसामा सामगस्सामेति बलाय कवचाय हुं
रथांगपाणि रक्षोभ्य इति नेत्राभ्यां वौषट्
शांगधन्वा गदाधर इति वीर्याय अस्त्रायफट्
ऋतुः सुदर्शनः काल इति दिग्भंधः
ध्यानम्
क्षीरोधन्वत् प्रदेशे शुचिमणि विलसत् सैकते मौक्तिकानाम् ।
मालाक्लुप्ता सनस्थः स्फटिकमणि निभैर्-मौक्तिकैर्-मंडितांगः ।
शुभ्रैरभ्रै रदभ्रै रुपरिविरचितैर्मुक्त पीयूष वर्षैः
आनंदी नः पुनीया दरिनलिन गदा शंखपाणिर्मुकुंदः ॥ १ ॥
भूः पादौ यस्य नाभिर्वियदसुर निलश्चंद्र सूर्यौ च नेत्रे ।
कर्णावाशाः शिरोद्यौर्मुखमपि दहनो यस्य वास्तेय मब्धिः ।
अंतस्थं यस्य विश्वं सुर नरखगगो भोगि गंधर्व दैत्यैः ।
चित्रं रं रम्यते तं त्रिभुवन वपुशं विष्णुमीशं नमामि ॥ २ ॥
ॐ नमो भगवते वासुदेवाय !
शांताकारं भुजगशयनं पद्मनाभं सुरेशम् ।
विश्वाकारं गगन सदृशं मेघवर्णं शुभांगम् ।
लक्ष्मीकांतं कमलनयनं योगि हृद्ध्यान गम्यम् ।
वंदे विष्णुं भव भय हरं सर्व लोकैक नाथम् ॥ ३ ॥
मेघ श्यामं पीत कौशेय वासं श्रीवत्साकं कौस्तुभोद्भासितांगम् ।
पुण्योपेतं पुंडरीकायताक्षं विष्णुं वंदे सर्वलोकैक नाथम्॥ ४ ॥
नमः समस्त भूतानाम् आदि भूताय भूभृते ।
अनेकरूप रूपाय विष्णवे प्रभविष्णवे ॥ ५॥
सशंखचक्रं सकिरीट कुंडलं सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहार वक्षःस्थल शोभि कौस्तुभं नमामि विष्णुं शिरसा चतुर्भुजम् । ६॥
छायायां पारिजातस्य हेमसिंहासनोपरि
आसीनमंबुदश्याम मायताक्ष मलंकृतम् ॥ ७ ॥
चंद्राननं चतुर्बाहुं श्रीवत्सांकित वक्षसम्
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ॥ ८ ॥
पंचपूज
लं – पृथिव्यात्मने गंथं समर्पयामि
हं – आकाशात्मने पुष्पैः पूजयामि
यं – वाय्वात्मने धूपमाघ्रापयामि
रं – अग्न्यात्मने दीपं दर्शयामि
वं – अमृतात्मने नैवेद्यं निवेदयामि
सं – सर्वात्मने सर्वोपचार पूजा नमस्कारान् समर्पयामि
स्तोत्रम्
हरिः ॐ
विश्वं विष्णुर्वषट्कारो भूतभव्य भवत्प्रभुः ।
भूतकृद् भूतभृद्भावो भूतात्मा भूतभावनः ॥ १ ॥
पूतात्मा परमात्मा च मुक्तानां परमागतिः ।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोஉक्षर एव च ॥ २ ॥
योगो योगविदां नेता प्रधान पुरुषेश्वरः ।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३ ॥
सर्वः शर्वः शिवः स्थाणुर्-भूतादिर्निधिरव्ययः ।
संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४ ॥
स्वयंभूः शंभुरादित्यः पुष्कराक्षो महास्वनः ।
अनादि निधनो धाता विधाता धातुरुत्तमः ॥ ५ ॥
अप्रमेयो हृषीकेशः पद्मनाभोஉमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६ ॥
अग्राह्यः शाश्वतो कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतस्त्रिककुब्धाम पवित्रं मंगलं परम् ॥ ७ ॥
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८ ॥
ईश्वरो विक्रमीधन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्॥ ९ ॥
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
अहस्संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ १० ॥
अजस्सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।
वृषा कपिरमेयात्मा सर्वयोग विनिस्सृतः ॥ ११ ॥
वसुर्वसुमनाः सत्यः समात्मा सम्मितस्समः ।
अमोघः पुंडरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १२ ॥
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वत स्थाणुर्वरारोहो महातपाः ॥ १३ ॥
सर्वगः सर्व विद्भानुर्विष्वक्सेनो जनार्दनः ।
वेदोवेद विदव्यंगो वेदांगो वेदवित्कविः ॥ १४ ॥
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूहः चतुर्दंष्ट्रः चतुर्भुजः ॥ १५ ॥
भ्राजिष्णुर्भोजनं भोक्ता सहिष्नुर्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६ ॥
उपेंद्रो वामनः प्रांशुरमोघः शुचिरूर्जितः ।
अतींद्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥ १७ ॥
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अतींद्रियो महामायो महोत्साहो महाबलः ॥ १८ ॥
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रि धृक् ॥ १९ ॥
महेश्वासो महीभर्ता श्रीनिवासः सतांगतिः ।
अनिरुद्धः सुरानंदो गोविंदो गोविदां पतिः ॥ २० ॥
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ २१ ॥
अमृत्युः सर्वदृक्-सिंहः संधाता संधिमान् स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ २२ ॥
गुरुर्-गुरुतमो धामः सत्य-स्सत्य पराक्रमः ।
निमिषोஉनिमिषः स्रग्वी वाचस्पति रुदारधीः ॥ २३ ॥
अग्रणीः ग्रामणीः श्रीमान् न्यायोनेता समीरणः
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ २४ ॥
आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः ।
अहः संवर्तको वह्नि-रनिलो धरणीधरः ॥ २५ ॥
सुप्रसादः प्रसन्नात्मा विश्वधृग्-विश्वभुग्-विभुः ।
सत्कर्ता सत्कृतः साधुर्-जह्नुर्-नारायणो नरः ॥ २६ ॥
असंख्येयोஉप्रमेयात्मा विशिष्टः शिष्ट कृच्छुचिः ।
सिद्धार्थः सिद्ध संकल्पः सिद्धिदः सिद्धि साधनः ॥ २७ ॥
वृषाही वृषभो विष्णुर्-वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ २८ ॥
सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसुः ।
नैकरूपो बृहद्-रूपः शिपिविष्टः प्रकाशनः ॥ २९ ॥
ओजस्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्दः स्पष्टाक्षरो मंत्र-श्चंद्रांशुर्-भास्करद्युतिः ॥ ३० ॥
अमृतां शूद्भवो भानुः शशबिंदुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्यधर्म पराक्रमः ॥ ३१ ॥
भूतभव्य भवन्नाथः पवनः पावनोஉनलः ।
कामहा कामकृत्-कांतः कामः कामप्रदः प्रभुः ॥ ३२ ॥
युगादि कृद्युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनंतजित् ॥ ३३ ॥
इष्टोஉविशिष्टः शिष्टेष्टः शिखंडी नहुषो वृषः ।
क्रोधहा क्रोध कृत्कर्ता विश्वबाहुर्-महीधरः ॥ ३४ ॥
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपां निधिरधिष्ठान मप्रमत्तः प्रतिष्ठितः ॥ ३५ ॥
स्कंदः स्कंदधरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद्-भानुरादिदेवः पुरंधरः ॥ ३६ ॥
अशोकस्तारण स्तारः शूरः शौरिर्-जनेश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्म निभेक्षणः ॥ ३७ ॥
पद्मनाभोஉरविंदाक्षः पद्मगर्भः शरीरभृत् ।
महर्धिर्-ऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८ ॥
अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षण लक्षण्यो लक्ष्मीवान् समितिंजयः ॥ ३९ ॥
विक्षरो रोहितो मार्गो हेतुर्-दामोदरः सहः ।
महीधरो महाभागो वेगवान मिताशनः ॥ ४० ॥
उद्भवः, क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१ ॥
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।
परर्धिः परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ॥ ४२ ॥
रामो विरामो विरजो मार्गोनेयो नयोஉनयः ।
वीरः शक्तिमतां श्रेष्ठो धर्मोधर्म विदुत्तमः ॥ ४३ ॥
वैकुंठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ४४ ॥
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ४५ ॥
विस्तारः स्थावर स्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थोஉनर्थो महाकोशो महाभोगो महाधनः ॥ ४६ ॥
अनिर्विण्णः स्थविष्ठो भूद्धर्मयूपो महामखः ।
नक्षत्रनेमिर्-नक्षत्री क्षमः, क्षामः समीहनः ॥ ४७ ॥
यज्ञ इज्यो महेज्यश्च क्रतु-स्सत्रं सतांगतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ४८ ॥
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
मनोहरो जितक्रोधो वीर बाहुर्-विदारणः ॥ ४९ ॥
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्। ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ५० ॥
धर्मगुब्धर्मकृद्धर्मी सदसत्-क्षरमक्षरम्॥
अविज्ञाता सहस्त्रांशुर्विधाता कृतलक्षणः ॥ ५१ ॥
गभस्तिनेमिः सत्त्वस्थः सिंहो भूत महेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद्-गुरुः ॥ ५२ ॥
उत्तरो गोपतिर्-गोप्ता ज्ञानगम्यः पुरातनः ।
शरीर भूतभृद् भोक्ता कपींद्रो भूरिदक्षिणः ॥ ५३ ॥
सोमपोஉमृतपः सोमः पुरुजित् पुरुसत्तमः ।
विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः ॥ ५४ ॥
जीवो विनयिता साक्षी मुकुंदोஉमित विक्रमः ।
अंभोनिधिरनंतात्मा महोदधि शयोंतकः ॥ ५५ ॥
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनंदोஉनंदनोनंदः सत्यधर्मा त्रिविक्रमः ॥ ५६ ॥
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्-त्रिदशाध्यक्षो महाशृंगः कृतांतकृत् ॥ ५७ ॥
महावराहो गोविंदः सुषेणः कनकांगदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्र गदाधरः ॥ ५८ ॥
वेधाः स्वांगोஉजितः कृष्णो दृढः संकर्षणोஉच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९ ॥
भगवान् भगहाஉஉनंदी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्नुर्-गतिसत्तमः ॥ ६० ॥
सुधन्वा खंडपरशुर्-दारुणो द्रविणप्रदः ।
दिवस्पृक्-सर्व दृग्वासो वाचस्पतिरयोनिजः ॥ ६१ ॥
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।
सन्यास कृच्छमः शांतो निष्ठा शांतिः परायणम्। ६२ ॥
शुभांगः शांतिदः स्रष्ठा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्-गोप्ता वृषभाक्षो वृषप्रियः ॥ ६३ ॥
अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ ६४ ॥
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमान् लोकत्रयाश्रयः ॥ ६५ ॥
स्वक्षः स्वंगः शतानंदो नंदिर्-ज्योतिर्-गणेश्वरः ।
विजितात्मा विधेयात्मा सत्कीर्ति-च्छिन्न संशयः ॥ ६६ ॥
उदीर्णः सर्वतश्चक्षु रनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्-विशोकः शोकनाशनः ॥ ६७ ॥
अर्चिष्मा नर्चितः कुंभो विशुद्धात्मा विशोधनः ।
अनिरुद्धोஉप्रतिरथः प्रद्युम्नोஉमित विक्रमः ॥ ६८ ॥
कालनेमिनिहा वीरः शौरिः शूरः जनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ६९ ॥
कामदेवः कामपालः कामी कांतः कृतागमः ।
अनिर्देश्यवपुर्-विष्णुर्-वीरोஉनंतो धनंजयः ॥ ७० ॥
ब्रह्मण्यो ब्रह्मकृत् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद्-ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७१ ॥
महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्-महायज्वा महायज्ञो महाहविः ॥ ७२ ॥
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्य कीर्ति रनामयः ॥ ७३ ॥
मनोजव-स्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्-वसुमना हविः ॥ ७४ ॥
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ७५ ॥
भूतावासो वासुदेवः सर्वासु निलयोஉनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरोஉथापराजितः ॥ ७६ ॥
विश्वमूर्तिर्-महामूर्तिर्-दीप्तमूर्ति रमूर्तिमान् ।
अनेक मूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ७७ ॥
एको नैकः सवः कः किं यत्तत्-पदम नुत्तमम् ।
लोकबंधुर्-लोकनाथो माधवो भक्तवत्सलः ॥ ७८ ॥
सुवर्णवर्णो हेमांगो वरांगश्चंदनांगदी ।
वीरहा विषमः शून्यो घृता शीरचलश्चलः ॥ ७९ ॥
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृत्(क्) ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ८० ॥
तेजोஉवृषो द्युतिधरः सर्वशस्त्र भृतांवरः ।
प्रग्रहो निग्रहो व्यग्रो नैकशृंगो गदाग्रजः ॥ ८१ ॥
चतुर्मूर्ति श्चतुर्बाहु श्चतुर्व्यूह श्चतुर्गतिः ।
चतुरात्मा चतुर्भावः चतुर्वेद विदेकपात् ॥ ८२ ॥
समावर्तोஉनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३ ॥
शुभांगो लोकसारंगः सुतंतुः तंतुवर्धनः ।
इंद्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४ ॥
उद्भवः सुंदरः सुंदो रत्ननाभः सुलोचनः ।
अर्को वाजसनः शृंगी जयंतः सर्वविज्जयी ॥ ८५ ॥
सुवर्णबिंदु रक्षोभ्यः सर्ववागी श्वरेश्वरः ।
महाहृदो महागर्तो महाभूतो महानिधिः ॥ ८६ ॥
कुमुदः कुंदरः कुंदः पर्जन्यः पावनोஉनिलः ।
अमृताशोஉमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ ८७ ॥
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधो दुंबरोஉश्वत्थः छाणूरांध्र निषूदनः ॥ ८८ ॥
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्ति रनघोஉचिंत्यो भयकृद्-भयनाशनः ॥ ८९ ॥
अणुर्-बृहत्-कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ ९० ॥
भारभृत्-कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः, क्षामः सुपर्णो वायुवाहनः ॥ ९१ ॥
धनुर्धरो धनुर्वेदो दंडो दमयिता दमः ।
अपराजितः सर्वसहो नियंताஉनियमोஉयमः ॥ ९२ ॥
सत्त्ववान् सात्त्विकः सत्यः सत्य धर्म परायणः ।
अभिप्रायः प्रियार्होஉर्हः प्रियकृत्-प्रीतिवर्धनः ॥ ९३ ॥
विहाय सगतिर्-ज्योतिः सुरुचिर्-हुतभुग्विभुः ।
रविर्-विरोचनः सूर्यः सविता रविलोचनः ॥ ९४ ॥
अनंतो हुतभुग् भोक्ता सुखदो नैकजोஉग्रजः ।
अनिर्विण्णः सदामर्षी लोकधिष्ठान मद्भुतः ॥ ९५ ॥
सनात् सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत्-स्वस्तिः स्वस्तिभुक् स्वस्तिदक्षिणः ॥ ९६ ॥
अरौद्रः कुंडली चक्री विक्रम्यूर्जितशाशनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ९७ ॥
अक्रूरः पेशलो दक्षो दक्षिणः, क्षमिणां वरः ।
विद्वत्तमो वीतभयः पुण्यश्रवण कीर्तनः ॥ ९८ ॥
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः संतो जीवनः पर्यवस्थितः ॥ ९९ ॥
अनंतरूपोஉनंत श्रीर्जितमन्युर्-भयापहः ।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १०० ॥
अनादिर्-भूर्भुवो लक्ष्मीः सुवीरो रुचिरांगदः ।
जननो जनजन्मादिर्-भीमो भीम पराक्रमः ॥ १०१ ॥
आधार निलयोஉधाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२ ॥
प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः ।
तत्त्वं तत्त्व विदेकात्मा जन्ममृत्यु जरातिगः ॥ १०३ ॥
भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्-यज्वा यज्ञांगो यज्ञवाहनः ॥ १०४ ॥
यज्ञभृत् यज्ञकृत् यज्ञी यज्ञभुक् यज्ञसाधनः ।
यज्ञांतकृत् यज्ञ गुह्य मन्नमन्नाद एव च ॥ १०५ ॥
आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।
देवकीनंदनः स्रष्ठा क्षितीशः पापनाशनः ॥ १०६ ॥
शंखभृन्नंदकी चक्री शार्ंग धन्वा गदाधरः ।
रथांगपाणि रक्षोभ्यः सर्वप्रहरणायुधः ॥ १०७ ॥
श्री सर्वप्रहरणायुध ॐ नम इति ।
वनमाली गदी शार्ंगी शंखी चक्री च नंदकी ।
श्रीमान्नारायणो विष्णुर्-वासुदेवोஉभिरक्षतु ॥ १०८ ॥
श्री वासुदेवोஉभिरक्षतु ॐ नम इति ।
उत्तर भागं
फलश्रुतिः
इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्याना मशेषेण प्रकीर्तितम्। ॥ १ ॥
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्॥
नाशुभं प्राप्नुयात् किंचित्-सोஉमुत्रेह च मानवः ॥ २ ॥
वेदांतगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्यात् शूद्रः सुख मवाप्नुयात् ॥ ३ ॥
धर्मार्थी प्राप्नुयाद्धर्म मर्थार्थी चार्थ माप्नुयात् ।
कामान वाप्नुयात् कामी प्रजार्थी चाप्नुयात् प्रजाम्। ॥ ४ ॥
भक्तिमान् यः सदोत्थाय शुचिः सद्गतमानसः ।
सहस्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत् ॥ ५ ॥
यशः प्राप्नोति विपुलं याति प्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्य नुत्तमम्। ॥ ६ ॥
न भयं क्वचिदाप्नोति वीर्यं तेजश्च विंदति ।
भवत्यरोगो द्युतिमान् बलरूप गुणान्वितः ॥ ७ ॥
रोगार्तो मुच्यते रोगाद्-बद्धो मुच्येत बंधनात् ।
भयान्-मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ ८ ॥
दुर्गाण्यतितर त्याशु पुरुषः पुरुषोत्तमम् ।
स्तुवन्नाम सहस्रेण नित्यं भक्ति समन्वितः ॥ ९ ॥
वासुदेवाश्रयो मर्त्यो वासुदेव परायणः ।
सर्वपाप विशुद्धात्मा याति ब्रह्म सनातनम्। ॥ १० ॥
न वासुदेव भक्ताना मशुभं विद्यते क्वचित् ।
जन्म मृत्यु जराव्याधि भयं नैवोपजायते ॥ ११ ॥
इमं स्तवमधीयानः श्रद्धाभक्ति समन्वितः ।
युज्येतात्म सुखक्षांति श्रीधृति स्मृति कीर्तिभिः ॥ १२ ॥
न क्रोधो न च मात्सर्यं न लोभो नाशुभामतिः ।
भवंति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ १३ ॥
द्वौः स चंद्रार्क नक्षत्रा खं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १४ ॥
ससुरासुर गंधर्वं सयक्षोरग राक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य स चराचरम्। ॥ १५ ॥
इंद्रियाणि मनोबुद्धिः सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्म कान्याहुः, क्षेत्रं क्षेत्रज्ञ एव च ॥ १६ ॥
सर्वागमाना माचारः प्रथमं परिकल्पते ।
आचर प्रभवो धर्मो धर्मस्य प्रभुरच्युतिः ॥ १७ ॥
ऋषयः पितरो देवा महाभूतानि धातवः ।
जंगमा जंगमं चेदं जगन्नारायणोद्भवम् ॥ १८ ॥
योगोज्ञानं तथा सांख्यं विद्याः शिल्पादिकर्म च ।
वेदाः शास्त्राणि विज्ञानमेतत् सर्वं जनार्दनात् ॥ १९ ॥
एको विष्णुर्-महद्-भूतं पृथग्भूता न्यनेकशः ।
त्रीन्लोकान् व्याप्य भूतात्मा भुंक्ते विश्वभुगव्ययः ॥ २० ॥
इमं स्तवं भगवतो विष्णोर्-व्यासेन कीर्तितम् ।
पठेद्य इच्चेत्-पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ २१ ॥
विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम्।
भजंति ये पुष्कराक्षं न ते यांति पराभवम् ॥ २२ ॥
न ते यांति पराभवम् ॐ नम इति ।
अर्जुन उवाच
पद्मपत्र विशालाक्ष पद्मनाभ सुरोत्तम ।
भक्ताना मनुरक्तानां त्राताभव जनार्दन ॥ २३ ॥
श्रीभगवान् उवाच
यो मां नाम सहस्रेण स्तोतुमिच्छति पांडव ।
सोஉहमेकेन श्लोकेन स्तुत एव न संशयः ॥ २४ ॥
स्तुत एव न संशय ॐ नम इति ।
व्यास उवाच
वासनाद्-वासुदेवस्य वासितं भुवनत्रयम् ।
सर्वभूत निवासोஉसि वासुदेव नमोஉस्तुते ॥ २५ ॥
श्रीवासुदेव नमोस्तुत ॐ नम इति ।
पार्वत्युवाच
केनोपायेन लघुना विष्णोर्-नाम सहस्रकम् ।
पठ्यते पंडितैर्-नित्यं श्रोतु मिच्छाम्यहं प्रभो ॥ २६ ॥
ईश्वर उवाच
श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ २७ ॥
श्रीराम नाम वरानन ॐ नम इति ।
ब्रह्मोवाच
नमोஉस्त्वनंताय सहस्रमूर्तये सहस्र पादाक्षि शिरोरु बाहवे ।
सहस्र नाम्ने पुरुषाय शाश्वते सहस्रकोटी युग धारिणे नमः ॥ २८ ॥
श्री सहस्र कोटी युगधारिणे नम ॐ नम इति ।
संजय उवाच
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्-विजयो भूतिर्-ध्रुवा नीतिर्-मतिर्-मम ॥ २९ ॥
श्री भगवान् उवाच
अनन्याश्चिंत यंतो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्। ॥ ३० ॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम्। ।
धर्म संस्थापनार्थाय संभवामि युगे युगे ॥ ३१ ॥
आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः ।
संकीर्त्य नारायण शब्दमात्रं विमुक्त दुःखाः सुखिनो भवंति ॥ ३२ ॥
कायेन वाचा मनसेंद्रि यैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात्
करोमि यद्यत्-सकलं परस्मै नारायणायेति समर्पयामि ॥ ३३ ॥
यदक्षर पदभ्रष्टं मात्राहीनं तु यद्भवेत्
तथ्सर्वं क्षम्यताम् देव नारायण नमोஉस्तुते ।
विसर्ग बिंदु मात्राणि पद पादाक्षराणि च
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तमः ॥