Aditya Hrudayam in Hindi

Aditya Hrudayam in Hindi, Aditya Hrudayam Lyrics in Hindi, Aditya Hridaya Stotra.

Aditya Hridaya Stotra is a very popular hymn dedicated to Surya Bhagawan (Sun God). It is chanted daily during Sunrise time and during daily puja.

This ‘Aditya Hridaya Stotra’ is mentioned in Valmiki’s Srimad Ramayana Adikavya, Yuddha Kanda.

ततो युद्ध परिश्रांतं समरे चिंतया स्थितम् ।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ १ ॥

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपगम्या ब्रवीद्रामम् अगस्त्यो भगवान् ऋषिः ॥ २ ॥

राम राम महाबाहो शृणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसि ॥ ३ ॥

आदित्य हृदयं पुण्यं सर्वशत्रु विनाशनम् ।
जयावहं जपेन्नित्यम् अक्षय्यं परमं शिवम् ॥ ४ ॥

सर्वमंगल मांगल्यं सर्व पाप प्रणाशनम् ।
चिंताशोक प्रशमनम् आयुर्वर्धन मुत्तमम् ॥ ५ ॥

रश्मिमंतं समुद्यंतं देवासुर नमस्कृतम् ।
पूजयस्व विवस्वंतं भास्करं भुवनेश्वरम् ॥ ६ ॥

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुर गणान् लोकान् पाति गभस्तिभिः ॥ ७ ॥

एष ब्रह्मा च विष्णुश्च शिवः स्कंदः प्रजापतिः ।
महेंद्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥ ८ ॥

पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ।
वायुर्वह्निः प्रजाप्राणः ऋतुकर्ता प्रभाकरः ॥ ९ ॥

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुः हिरण्यरेता दिवाकरः ॥ १० ॥

हरिदश्वः सहस्रार्चिः सप्तसप्ति-र्मरीचिमान् ।
तिमिरोन्मथनः शंभुः त्वष्टा मार्तांडको‌உंशुमान् ॥ ११ ॥

हिरण्यगर्भः शिशिरः तपनो भास्करो रविः ।
अग्निगर्भो‌உदितेः पुत्रः शंखः शिशिरनाशनः ॥ १२ ॥

व्योमनाथ स्तमोभेदी ऋग्यजुःसाम-पारगः ।
घनावृष्टि रपां मित्रो विंध्यवीथी प्लवंगमः ॥ १३ ॥

आतपी मंडली मृत्युः पिंगलः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ १४ ॥

नक्षत्र ग्रह ताराणाम् अधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन्-नमो‌உस्तु ते ॥ १५ ॥

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ १६ ॥

जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ १७ ॥

नम उग्राय वीराय सारंगाय नमो नमः ।
नमः पद्मप्रबोधाय मार्तांडाय नमो नमः ॥ १८ ॥

ब्रह्मेशानाच्युतेशाय सूर्यायादित्य-वर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ १९ ॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नाया मितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ २० ॥

तप्त चामीकराभाय वह्नये विश्वकर्मणे ।
नमस्तमो‌உभि निघ्नाय रुचये लोकसाक्षिणे ॥ २१ ॥

नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ २२ ॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष एवाग्निहोत्रं च फलं चैवाग्नि होत्रिणाम् ॥ २३ ॥

वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ २४ ॥

फलश्रुतिः

एन मापत्सु कृच्छ्रेषु कांतारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चिन्-नावशीदति राघव ॥ २५ ॥

पूजयस्वैन मेकाग्रो देवदेवं जगत्पतिम् ।
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ २६ ॥

अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि ।
एवमुक्त्वा तदागस्त्यो जगाम च यथागतम् ॥ २७ ॥

एतच्छ्रुत्वा महातेजाः नष्टशोको‌உभवत्-तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ २८ ॥

आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ २९ ॥

रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।
सर्वयत्नेन महता वधे तस्य धृतो‌உभवत् ॥ ३० ॥

अध रविरवदन्-निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपति संक्षयं विदित्वा सुरगण मध्यगतो वचस्त्वरेति ॥ ३१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मिकीये आदिकाव्ये युद्दकांडे पंचाधिक शततम सर्गः ॥

Aditya Hrudayam in Other Languages

Write Your Comment

Discover more from HinduPad

Subscribe now to keep reading and get access to the full archive.

Continue reading