Sree Ramaashtottara Sata Nama Stotram in Hindi | श्री रामअष्टोत्तर शत नाम स्तोत्रम

Sree Ramaashtottara Sata Nama Stotram in Hindi | श्री रामअष्टोत्तर शत नाम स्तोत्रम.. Lyrics of Sree Ramaashtottara Sata Nama Stotram in Hindi | श्री रामअष्टोत्तर शत नाम स्तोत्रम

॥ श्री राम अष्टोत्तर शतनामस्तोत्रम् ॥

श्रीरामो रामभद्रश्च रामचंद्रश्च शाश्वतः ।
राजीवलोचनः श्रीमान् राजेंद्रो रघुपुंगवः ॥ १ ॥

जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः ।
विश्वामित्रप्रियो दांतः शरणत्राणतत्परः ॥ २ ॥

वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः ।
सत्यव्रतो व्रतधरः सदा हनुमदाश्रित: ॥ ३ ॥

कौसल्येयः खरध्वंसी विराधवधपंडितः ।
विभीषणपरित्राता हरकोदंडखंडनः ॥ ४ ॥

सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः ।
जामदग्व्यमहादर्पदलनस्ताटकांतकः ॥ ५ ॥

वेदांतसारो वेदात्मा भवरोगस्य भेषजम् ।
दूषणत्रिशिरोहंता त्रिमूर्तिस्त्रिगुणात्मकः ॥ ६ ॥

त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः ।
त्रिलोकरक्षको धन्वी दंडकारण्यकर्षणः ॥ ७ ॥

अहल्याशापशमनः पितृभक्तो वरप्रदः ।
जितेंद्रियो जितक्रोधो जितावद्यो जगद्गुरुः ॥ ८ ॥

ऋक्षवानरसंघाती चित्रकूटसमाश्रयः ।
जयंतत्राणवरदः सुमित्रापुत्रसेवितः ॥ ९ ॥

सर्वदेवाधिदेवश्चमृतवानरजीवनः ।
मायामारीचहंता च महादेवो महाभुजः ॥ १० ॥

सर्वदेवस्तुतः स्ॐयो ब्रह्मण्यो मुनिसंस्तुतः ।
महायोगी महोदारः सुग्रीवेप्सितराज्यदः ॥ ११ ॥

सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः ।
आदिपुरुषः परमपुरुषो महापुरुष एव च ॥ १२ ॥

पुण्योदयो दयासारः पुराणपुरुषोत्तमः ।
स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः ॥ १३ ॥

अनंतगुणगंभीरो धीरोदात्तगुणोत्तमः ।
मायामानुषचारित्रो महादेवादिपूजितः ॥ १४ ॥

सेतुकृज्जितवाराशिः सर्वतीर्थमयो हरिः ।
श्यामांगः सुंदरः शूरः पीतवासा धनुर्धरः ॥ १५ ॥

सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः ।
विभीषणप्रतिष्ठाता सर्वापगुणवर्जितः ॥ १६ ॥

परमात्मा परं ब्रह्म सच्चिदानंदविग्रहः ।
परंज्योतिः परंधाम पराकाशः परात्परः ।
परेशः पारगः पारः सर्वदेवात्मकः परः ॥ १७ ॥

श्रीरामाष्टोत्तरशतं भवतापनिवारकम् ।
संपत्करं त्रिसंध्यासु पठतां भक्तिपूर्वकम् ॥ १८ ॥

रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाःपतये नमः ॥ १९ ॥

॥ इति श्रीस्कंदपुआणे श्रीराम अष्टोत्तर शतनामस्तोत्रम् ॥

Sree Ramaashtottara Sata Nama Stotram in Other Languages

Write Your Comment