रचन: ऋषि मार्कंडेय
ध्यानं
अरुणां करुणा तरंगिताक्षीं धृतपाशांकुश पुष्पबाणचापाम् ।
अणिमाधिभिरावृतां मयूखै रहमित्येव विभावये भवानीम् ॥
ऋषिरुवाच ॥१॥
चंडे च निहते दैत्ये मुंडे च विनिपातिते ।
बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ॥ २ ॥
ततः कोपपराधीनचेताः शुंभः प्रतापवान् ।
उद्योगं सर्व सैन्यानां दैत्यानामादिदेश ह ॥३॥
अद्य सर्व बलैर्दैत्याः षडशीतिरुदायुधाः ।
कंबूनां चतुरशीतिर्निर्यांतु स्वबलैर्वृताः ॥४॥
कोटिवीर्याणि पंचाशदसुराणां कुलानि वै ।
शतं कुलानि धौम्राणां निर्गच्छंतु ममाज्ञया ॥५॥
कालका दौर्हृदा मौर्वाः कालिकेयास्तथासुराः ।
युद्धाय सज्जा निर्यांतु आज्ञया त्वरिता मम ॥६॥
इत्याज्ञाप्यासुरापतिः शुंभो भैरवशासनः ।
निर्जगाम महासैन्यसहस्त्रैर्भहुभिर्वृतः ॥७॥
आयांतं चंडिका दृष्ट्वा तत्सैन्यमतिभीषणम् ।
ज्यास्वनैः पूरयामास धरणीगगनांतरम् ॥८॥
ततःसिंहो महानादमतीव कृतवान्नृप ।
घंटास्वनेन तान्नादानंबिका चोपबृंहयत् ॥९॥
धनुर्ज्यासिंहघंटानां नादापूरितदिङ्मुखा ।
निनादैर्भीषणैः काली जिग्ये विस्तारितानना ॥१०॥
तं निनादमुपश्रुत्य दैत्य सैन्यैश्चतुर्दिशम् ।
देवी सिंहस्तथा काली सरोषैः परिवारिताः ॥११॥
एतस्मिन्नंतरे भूप विनाशाय सुरद्विषाम् ।
भवायामरसिंहनामतिवीर्यबलान्विताः ॥१२॥
ब्रह्मेशगुहविष्णूनां तथेंद्रस्य च शक्तयः ।
शरीरेभ्योविनिष्क्रम्य तद्रूपैश्चंडिकां ययुः ॥१३॥
यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ।
तद्वदेव हि तच्चक्तिरसुरान्योद्धुमायमौ ॥१४॥
हंसयुक्तविमानाग्रे साक्षसूत्रक मंडलुः ।
आयाता ब्रह्मणः शक्तिब्रह्माणी त्यभिधीयते ॥१५॥
महेश्वरी वृषारूढा त्रिशूलवरधारिणी ।
महाहिवलया प्राप्ताचंद्ररेखाविभूषणा ॥१६॥
कौमारी शक्तिहस्ता च मयूरवरवाहना ।
योद्धुमभ्याययौ दैत्यानंबिका गुहरूपिणी ॥१७॥
तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ।
शंखचक्रगधाशांखर् खड्गहस्ताभ्युपाययौ ॥१८॥
यज्ञवाराहमतुलं रूपं या भिभ्रतो हरेः ।
शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥१९॥
नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।
प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्र संहतिः ॥२०॥
वज्र हस्ता तथैवैंद्री गजराजो परिस्थिता ।
प्राप्ता सहस्र नयना यथा शक्रस्तथैव सा ॥२१॥
ततः परिवृत्तस्ताभिरीशानो देव शक्तिभिः ।
हन्यंतामसुराः शीघ्रं मम प्रीत्याह चंडिकां ॥२२॥
ततो देवी शरीरात्तु विनिष्क्रांतातिभीषणा ।
चंडिका शक्तिरत्युग्रा शिवाशतनिनादिनी ॥२३॥
सा चाह धूम्रजटिलम् ईशानमपराजिता ।
दूतत्वं गच्छ भगवन् पार्श्वं शुंभनिशुंभयोः ॥२४॥
ब्रूहि शुंभं निशुंभं च दानवावतिगर्वितौ ।
ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ॥२५॥
त्रैलोक्यमिंद्रो लभतां देवाः संतु हविर्भुजः ।
यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥२६॥
बलावलेपादथ चेद्भवंतो युद्धकांक्षिणः ।
तदा गच्छत तृप्यंतु मच्छिवाः पिशितेन वः ॥२७॥
यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् ।
शिवदूतीति लोकेஉस्मिंस्ततः सा ख्याति मागता ॥२८॥
तेஉपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः ।
अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥२९॥
ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः ।
ववर्षुरुद्धतामर्षाः स्तां देवीममरारयः ॥३०॥
सा च तान् प्रहितान् बाणान् ञ्छूलशक्तिपरश्वधान् ।
चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः ॥३१॥
तस्याग्रतस्तथा काली शूलपातविदारितान् ।
खट्वांगपोथितांश्चारीन्कुर्वंती व्यचरत्तदा ॥३२॥
कमंडलुजलाक्षेपहतवीर्यान् हतौजसः ।
ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति ॥३३॥
माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी ।
दैत्याङ्जघान कौमारी तथा शत्याति कोपना ॥३४॥
ऐंद्री कुलिशपातेन शतशो दैत्यदानवाः ।
पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ॥३५॥
तुंडप्रहारविध्वस्ता दंष्ट्रा ग्रक्षत वक्षसः ।
वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ॥३६॥
नखैर्विदारितांश्चान्यान् भक्षयंती महासुरान् ।
नारसिंही चचाराजौ नादा पूर्णदिगंबरा ॥३७॥
चंडाट्टहासैरसुराः शिवदूत्यभिदूषिताः ।
पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ॥३८॥
इति मातृ गणं क्रुद्धं मर्द यंतं महासुरान् ।
दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ॥३९॥
पलायनपरांदृष्ट्वा दैत्यान्मातृगणार्दितान् ।
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥४०॥
रक्तबिंदुर्यदा भूमौ पतत्यस्य शरीरतः ।
समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ॥४१॥
युयुधे स गदापाणिरिंद्रशक्त्या महासुरः ।
ततश्चैंद्री स्ववज्रेण रक्तबीजमताडयत् ॥४२॥
कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् ।
समुत्तस्थुस्ततो योधास्तद्रपास्तत्पराक्रमाः ॥४३॥
यावंतः पतितास्तस्य शरीराद्रक्तबिंदवः ।
तावंतः पुरुषा जाताः स्तद्वीर्यबलविक्रमाः ॥४४॥
ते चापि युयुधुस्तत्र पुरुषा रक्त संभवाः ।
समं मातृभिरत्युग्रशस्त्रपातातिभीषणं ॥४५॥
पुनश्च वज्र पातेन क्षत मश्य शिरो यदा ।
ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ॥४६॥
वैष्णवी समरे चैनं चक्रेणाभिजघान ह ।
गदया ताडयामास ऐंद्री तमसुरेश्वरम् ॥४७॥
वैष्णवी चक्रभिन्नस्य रुधिरस्राव संभवैः ।
सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ॥४८॥
शक्त्या जघान कौमारी वाराही च तथासिना ।
माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ॥४९॥
स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् ।
मातॄः कोपसमाविष्टो रक्तबीजो महासुरः ॥५०॥
तस्याहतस्य बहुधा शक्तिशूलादि भिर्भुविः ।
पपात यो वै रक्तौघस्तेनासंचतशोஉसुराः ॥५१॥
तैश्चासुरासृक्संभूतैरसुरैः सकलं जगत् ।
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥५२॥
तान् विषण्णा न् सुरान् दृष्ट्वा चंडिका प्राहसत्वरम् ।
उवाच कालीं चामुंडे विस्तीर्णं वदनं कुरु ॥५३॥
मच्छस्त्रपातसंभूतान् रक्तबिंदून् महासुरान् ।
रक्तबिंदोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥५४॥
भक्षयंती चर रणो तदुत्पन्नान्महासुरान् ।
एवमेष क्षयं दैत्यः क्षेण रक्तो गमिष्यति ॥५५॥
भक्ष्य माणा स्त्वया चोग्रा न चोत्पत्स्यंति चापरे ।
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥५६॥
मुखेन काली जगृहे रक्तबीजस्य शोणितम् ।
ततोஉसावाजघानाथ गदया तत्र चंडिकां ॥५७॥
न चास्या वेदनां चक्रे गदापातोஉल्पिकामपि ।
तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥५८॥
यतस्ततस्तद्वक्त्रेण चामुंडा संप्रतीच्छति ।
मुखे समुद्गता येஉस्या रक्तपातान्महासुराः ॥५९॥
तांश्चखादाथ चामुंडा पपौ तस्य च शोणितम् ॥६०॥
देवी शूलेन वज्रेण बाणैरसिभिर् ऋष्टिभिः ।
जघान रक्तबीजं तं चामुंडा पीत शोणितम् ॥६१॥
स पपात महीपृष्ठे शस्त्रसंघसमाहतः ।
नीरक्तश्च महीपाल रक्तबीजो महासुरः ॥६२॥
ततस्ते हर्ष मतुलम् अवापुस्त्रिदशा नृप ।
तेषां मातृगणो जातो ननर्तासृंंगमदोद्धतः ॥६३॥
॥ स्वस्ति श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये रक्तबीजवधोनाम अष्टमोध्याय समाप्तम् ॥
आहुति
ॐ जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै रक्ताक्ष्यै अष्टमातृ सहितायै महाहुतिं समर्पयामि नमः स्वाहा ॥