रचन: तोटकाचार्य
करुणा वरुणालय पालय मां
भवसागर दुःख विदून हृदम् ।
रचयाखिल दर्शन तत्त्वविदं
भव शंकर देशिक मे शरणम् ॥ २ ॥
भवता जनता सुहिता भविता
निजबोध विचारण चारुमते ।
कलयेश्वर जीव विवेक विदं
भव शंकर देशिक मे शरणम् ॥ ३ ॥
भव एव भवानिति मे नितरां
समजायत चेतसि कौतुकिता ।
मम वारय मोह महाजलधिं
भव शंकर देशिक मे शरणम् ॥ ४ ॥
सुकृतेஉधिकृते बहुधा भवतो
भविता समदर्शन लालसता ।
अति दीनमिमं परिपालय मां
भव शंकर देशिक मे शरणम् ॥ ५ ॥
जगतीमवितुं कलिताकृतयो
विचरंति महामाह सच्छलतः ।
अहिमांशुरिवात्र विभासि गुरो
भव शंकर देशिक मे शरणम् ॥ ६ ॥
गुरुपुंगव पुंगवकेतन ते
समतामयतां न हि कोஉपि सुधीः ।
शरणागत वत्सल तत्त्वनिधे
भव शंकर देशिक मे शरणम् ॥ ७ ॥
विदिता न मया विशदैक कला
न च किंचन कांचनमस्ति गुरो ।
दृतमेव विधेहि कृपां सहजां
भव शंकर देशिक मे शरणम् ॥ ८ ॥