रचन: पतंजलि
देशबंधः चित्तस्य धारणा ॥१॥
तत्र प्रत्ययैकतानता ध्यानम् ॥२॥
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिवसमाधिः ॥३॥
त्रयमेकत्र संयमः ॥४॥
तज्जयात् प्रज्ञालोकः ॥५॥
तस्य भूमिषु विनियोगः ॥६॥
त्रयमंतरन्गं पूर्वेभ्यः ॥७॥
तदपि बहिरंगं निर्बीजस्य ॥८॥
व्युत्थाननिरोधसंस्कारयोः अभिभवप्रादुर्भावौ निरोधक्षण चित्तान्वयो निरोधपरिणामः ॥९॥
तस्य प्रशांतवाहिता संस्कारत् ॥१०॥
सर्वार्थता एकाग्रातयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥११॥
ततः पुनः शातोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥१२॥
एतेन भूतेंद्रियेषु धर्मलक्षणावस्था व्याख्याताः ॥१३॥
शानोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥१४॥
क्रमान्यत्वं परिणामान्यतेवे हेतुः ॥१५॥
परिणामत्रयसंयमाततीतानागत ज्ञानम् ॥१६॥
शब्दार्थप्रत्ययामामितरेत्रराध्यासात्संकरः तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥१७॥
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥१८॥
प्रत्ययस्य परचित्तज्ञानम् ॥१९॥
न च तत् सालंबनं तस्याविषयी भूतत्वात् ॥२०॥
कायरूपसंयमात् तत्ग्राह्यशक्तिस्तंभे चक्षुः प्रकाशासंप्रयोगेஉंतर्धानम् ॥२१॥
एतेन शब्दाद्यंतर्धानमुक्तम् ॥२२॥
सोपक्रमं निरुपक्रमं च कर्म तत्संयमातपरांतज्ञानम् अरिष्टेभ्यो वा ॥२३॥
मैत्र्यदिषु बलानि ॥२४॥
बलेषु हस्तिबलादीनी ॥२५॥
प्रवृत्त्यालोकन्यासात् सूक्ष्माव्यावहितविप्रकृष्टज्ञानम् ॥२६॥
भुवज्ञानं सूर्येसंयमात् ॥२७॥
चंद्रे तारव्यूहज्ञानम् ॥२८॥
ध्रुवे तद्गतिज्ञानम् ॥२९॥
नाभिचक्रे कायव्यूहज्ञानम् ॥३०॥
कन्ठकूपे क्षुत्पिपासा निवृत्तिः ॥३१॥
कूर्मनाड्यां स्थैर्यम् ॥३२॥
मूर्धज्योतिषि सिद्धदर्शनम् ॥३३॥
प्रातिभाद्वा सर्वम् ॥३४॥
ह्र्डये चित्तसंवित् ॥३५॥
सत्त्वपुरुषायोः अत्यंतासंकीर्णयोः प्रत्ययाविशेषोभोगः परार्थत्वात्स्वार्थसंयमात् पुरुषज्ञानम् ॥३६॥
ततः प्रातिभस्रावाणवेदनादर्शास्वादवार्ता जायंते ॥३७॥
ते समाधवुपसर्गाव्युत्थाने सिद्धयः ॥३८॥
बंधकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥३९॥
उदानजयाज्जलपंककंटकादिष्वसंगोஉत्क्रांतिश्च ॥४०॥
समानजयाज्ज्वलनम् ॥४१॥
श्रोत्राकाशयोः संबंधसंयमात् दिव्यं श्रोत्रम् ॥४२॥
कायाकाशयोः संबंधसंयमात् लघुतूलसमापत्तेश्चाकाश गमनम् ॥४३॥
बहिरकल्पिता वृत्तिः महाविदेहा ततः प्रकाशावरणक्षयः ॥४४॥
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः ॥४५॥
ततोஉणिमादिप्रादुर्भावः कायसंपत् तद्धरानभिघात्श्च ॥४६॥
रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ॥४७॥
ग्रहणस्वरूपास्मितावयार्थवत्त्वसंयमातिंद्रिय जयः ॥४८॥
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥४९॥
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥५०॥
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥५१॥
स्थान्युपनिमंत्रणे संगस्मयाकरणं पुनरनिष्टप्रसंगात् ॥५२॥
क्षणतत्क्रमयोः संयमात् विवेकजंज्ञानम् ॥५३॥
जातिलक्षणदेशैः अन्यतानवच्छेदात् तुल्ययोः ततः प्रतिपत्तिः ॥५४॥
तारकं सर्वविषयं सर्वथाविषयमक्रमंचेति विवेकजं ज्ञानम् ॥५५॥
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥५६॥
इति पातंजलयोगदर्शने विभूतिपादो नाम तृतीयः पादः ।