Devi Mahatmyam Durga Saptasati Chapter 2 in Hindi

रचन: ऋषि मार्कंडेय

अस्य सप्त सतीमध्यम चरित्रस्य विष्णुर् ऋषिः । उष्णिक् छंदः । श्रीमहालक्ष्मीदेवता। शाकंभरी शक्तिः । दुर्गा बीजम् । वायुस्तत्त्वम् । यजुर्वेदः स्वरूपम् । श्री महालक्ष्मीप्रीत्यर्थे मध्यम चरित्र जपे विनियोगः ॥

ध्यानं
ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुः कुंडिकां
दंडं शक्तिमसिं च चर्म जलजं घंटां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवाल प्रभां
सेवे सैरिभमर्दिनीमिह महलक्ष्मीं सरोजस्थिताम् ॥

ऋषिरुवाच ॥१॥

देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा।
महिषे‌உसुराणाम् अधिपे देवानांच पुरंदरे

तत्रासुरैर्महावीर्यिर्देवसैन्यं पराजितं।
जित्वा च सकलान् देवान् इंद्रो‌உभून्महिषासुरः ॥३॥

ततः पराजिता देवाः पद्मयोनिं प्रजापतिम्।
पुरस्कृत्यगतास्तत्र यत्रेश गरुडध्वजौ ॥४॥

यथावृत्तं तयोस्तद्वन् महिषासुरचेष्टितम्।
त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ॥५॥

सूर्येंद्राग्न्यनिलेंदूनां यमस्य वरुणस्य च
अन्येषां चाधिकारान्स स्वयमेवाधितिष्टति ॥६॥

स्वर्गान्निराकृताः सर्वे तेन देव गणा भुविः।
विचरंति यथा मर्त्या महिषेण दुरात्मना ॥६॥

एतद्वः कथितं सर्वम् अमरारिविचेष्टितम्।
शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिंत्यताम् ॥८॥

इत्थं निशम्य देवानां वचांसि मधुसूधनः
चकार कोपं शंभुश्च भ्रुकुटीकुटिलाननौ ॥९॥

ततो‌உतिकोपपूर्णस्य चक्रिणो वदनात्ततः।
निश्चक्राम महत्तेजो ब्रह्मणः शंकरस्य च ॥१०॥

अन्येषां चैव देवानां शक्रादीनां शरीरतः।
निर्गतं सुमहत्तेजः स्तच्चैक्यं समगच्छत ॥११॥

अतीव तेजसः कूटं ज्वलंतमिव पर्वतम्।
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगंतरम् ॥१२॥

अतुलं तत्र तत्तेजः सर्वदेव शरीरजम्।
एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ॥१३॥

यदभूच्छांभवं तेजः स्तेनाजायत तन्मुखम्।
याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ॥१४॥

सौम्येन स्तनयोर्युग्मं मध्यं चैंद्रेण चाभवत्।
वारुणेन च जंघोरू नितंबस्तेजसा भुवः ॥१५॥

ब्रह्मणस्तेजसा पादौ तदंगुल्यो‌உर्क तेजसा।
वसूनां च करांगुल्यः कौबेरेण च नासिका ॥१६॥

तस्यास्तु दंताः संभूता प्राजापत्येन तेजसा
नयनत्रितयं जज्ञे तथा पावकतेजसा ॥१७॥

भ्रुवौ च संध्ययोस्तेजः श्रवणावनिलस्य च
अन्येषां चैव देवानां संभवस्तेजसां शिव ॥१८॥

ततः समस्त देवानां तेजोराशिसमुद्भवाम्।
तां विलोक्य मुदं प्रापुः अमरा महिषार्दिताः ॥१९॥

शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक्।
चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः ॥२०॥

शंखं च वरुणः शक्तिं ददौ तस्यै हुताशनः
मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी ॥२१॥

वज्रमिंद्रः समुत्पाट्य कुलिशादमराधिपः।
ददौ तस्यै सहस्राक्षो घंटामैरावताद्गजात् ॥२२॥

कालदंडाद्यमो दंडं पाशं चांबुपतिर्ददौ।
प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमंडलं ॥२३॥

समस्तरोमकूपेषु निज रश्मीन् दिवाकरः
कालश्च दत्तवान् खड्गं तस्याः श्चर्म च निर्मलम् ॥२४॥

क्षीरोदश्चामलं हारम् अजरे च तथांबरे
चूडामणिं तथादिव्यं कुंडले कटकानिच ॥२५॥

अर्धचंद्रं तधा शुभ्रं केयूरान् सर्व बाहुषु
नूपुरौ विमलौ तद्व द्ग्रैवेयकमनुत्तमम् ॥२६॥

अंगुलीयकरत्नानि समस्तास्वंगुलीषु च
विश्व कर्मा ददौ तस्यै परशुं चाति निर्मलं ॥२७॥

अस्त्राण्यनेकरूपाणि तथा‌உभेद्यं च दंशनम्।
अम्लान पंकजां मालां शिरस्यु रसि चापराम्॥२८॥

अददज्जलधिस्तस्यै पंकजं चातिशोभनम्।
हिमवान् वाहनं सिंहं रत्नानि विविधानिच ॥२९॥

ददावशून्यं सुरया पानपात्रं दनाधिपः।
शेषश्च सर्व नागेशो महामणि विभूषितम् ॥३०॥

नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम्।
अन्यैरपि सुरैर्देवी भूषणैः आयुधैस्तथाः ॥३१॥

सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहु।
तस्यानादेन घोरेण कृत्स्न मापूरितं नभः ॥३२॥

अमायतातिमहता प्रतिशब्दो महानभूत्।
चुक्षुभुः सकलालोकाः समुद्राश्च चकंपिरे ॥३३॥

चचाल वसुधा चेलुः सकलाश्च महीधराः।
जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् ॥३४॥

तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः।
दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यम् अमरारयः ॥३५॥

सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुदाः।
आः किमेतदिति क्रोधादाभाष्य महिषासुरः ॥३६॥

अभ्यधावत तं शब्दम् अशेषैरसुरैर्वृतः।
स ददर्ष ततो देवीं व्याप्तलोकत्रयां त्विषा ॥३७॥

पादाक्रांत्या नतभुवं किरीटोल्लिखितांबराम्।
क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् ॥३८॥

दिशो भुजसहस्रेण समंताद्व्याप्य संस्थिताम्।
ततः प्रववृते युद्धं तया देव्या सुरद्विषां ॥३९॥

शस्त्रास्त्रैर्भहुधा मुक्तैरादीपितदिगंतरम्।
महिषासुरसेनानीश्चिक्षुराख्यो महासुरः ॥४०॥

युयुधे चमरश्चान्यैश्चतुरंगबलान्वितः।
रथानामयुतैः षड्भिः रुदग्राख्यो महासुरः ॥४१॥

अयुध्यतायुतानां च सहस्रेण महाहनुः।
पंचाशद्भिश्च नियुतैरसिलोमा महासुरः ॥४२॥

अयुतानां शतैः षड्भिःर्भाष्कलो युयुधे रणे।
गजवाजि सहस्रौघै रनेकैः परिवारितः ॥४३॥

वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत।
बिडालाख्यो‌உयुतानां च पंचाशद्भिरथायुतैः ॥४४॥

युयुधे संयुगे तत्र रथानां परिवारितः।
अन्ये च तत्रायुतशो रथनागहयैर्वृताः ॥४५॥

युयुधुः संयुगे देव्या सह तत्र महासुराः।
कोटिकोटिसहस्त्रैस्तु रथानां दंतिनां तथा ॥४६॥

हयानां च वृतो युद्धे तत्राभून्महिषासुरः।
तोमरैर्भिंधिपालैश्च शक्तिभिर्मुसलैस्तथा ॥४७॥

युयुधुः संयुगे देव्या खड्गैः परसुपट्टिसैः।
केचिच्छ चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे ॥४८॥

देवीं खड्गप्रहारैस्तु ते तां हंतुं प्रचक्रमुः।
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चंडिका ॥४९॥

लील यैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी।
अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ॥५०॥

मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी।
सो‌உपि क्रुद्धो धुतसटो देव्या वाहनकेसरी ॥५१॥

चचारासुर सैन्येषु वनेष्विव हुताशनः।
निःश्वासान् मुमुचेयांश्च युध्यमानारणे‌உंबिका॥५२॥

त एव सध्यसंभूता गणाः शतसहस्रशः।
युयुधुस्ते परशुभिर्भिंदिपालासिपट्टिशैः ॥५३॥

नाशयंतो‌உअसुरगणान् देवीशक्त्युपबृंहिताः।
अवादयंता पटहान् गणाः शङां स्तथापरे ॥५४॥

मृदंगांश्च तथैवान्ये तस्मिन्युद्ध महोत्सवे।
ततोदेवी त्रिशूलेन गदया शक्तिवृष्टिभिः॥५५॥

खड्गादिभिश्च शतशो निजघान महासुरान्।
पातयामास चैवान्यान् घंटास्वनविमोहितान् ॥५६॥

असुरान् भुविपाशेन बध्वाचान्यानकर्षयत्।
केचिद् द्विधाकृता स्तीक्ष्णैः खड्गपातैस्तथापरे ॥५७॥

विपोथिता निपातेन गदया भुवि शेरते।
वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः ॥५८॥

केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि।
निरंतराः शरौघेन कृताः केचिद्रणाजिरे ॥५९॥

शल्यानुकारिणः प्राणान् ममुचुस्त्रिदशार्दनाः।
केषांचिद्बाहवश्चिन्नाश्चिन्नग्रीवास्तथापरे ॥६०॥

शिरांसि पेतुरन्येषाम् अन्ये मध्ये विदारिताः।
विच्छिन्नजज्घास्वपरे पेतुरुर्व्यां महासुराः ॥६१॥

एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः।
छिन्नेपि चान्ये शिरसि पतिताः पुनरुत्थिताः ॥६२॥

कबंधा युयुधुर्देव्या गृहीतपरमायुधाः।
ननृतुश्चापरे तत्र युद्दे तूर्यलयाश्रिताः ॥६३॥

कबंधाश्चिन्नशिरसः खड्गशक्य्तृष्टिपाणयः।
तिष्ठ तिष्ठेति भाषंतो देवी मन्ये महासुराः ॥६४॥

पातितै रथनागाश्वैः आसुरैश्च वसुंधरा।
अगम्या साभवत्तत्र यत्राभूत् स महारणः ॥६५॥

शोणितौघा महानद्यस्सद्यस्तत्र विसुस्रुवुः।
मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥६६॥

क्षणेन तन्महासैन्यमसुराणां तथा‌உंबिका।
निन्ये क्षयं यथा वह्निस्तृणदारु महाचयम् ॥६७॥

सच सिंहो महानादमुत्सृजन् धुतकेसरः।
शरीरेभ्यो‌உमरारीणामसूनिव विचिन्वति ॥६८॥

देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः।
यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि ॥६९॥

जय जय श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये महिषासुरसैन्यवधो नाम द्वितीयो‌உध्यायः॥

आहुति
ॐ ह्रीं सांगायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै अष्टाविंशति वर्णात्मिकायै लक्श्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ।

Devi Mahatmyam Durga Saptasati Chapter 2 in Other Languages

Write Your Comment

Discover more from HinduPad

Subscribe now to keep reading and get access to the full archive.

Continue reading