Shani Vajrapanjara Kavacham in Hindi

नीलांबरो नीलवपुः किरीटी
गृध्रस्थितास्त्रकरो धनुष्मान् ।
चतुर्भुजः सूर्यसुतः प्रसन्नः
सदा ममस्याद्वरदः प्रशांतः ॥

ब्रह्मा उवाच

शृणुध्वं ऋषयः सर्वे शनि पीडाहरं महत् ।
कवचं शनिराजस्य सौरैरिदमनुत्तमम् ॥

कवचं देवतावासं वज्र पंजर संंगकम् ।
शनैश्चर प्रीतिकरं सर्वसौभाग्यदायकम् ॥

अथ श्री शनि वज्र पंजर कवचम्

ॐ श्री शनैश्चरः पातु भालं मे सूर्यनंदनः ।
नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ॥ १ ॥

नासां वैवस्वतः पातु मुखं मे भास्करः सदा ।
स्निग्धकंठश्च मे कंठं भुजौ पातु महाभुजः ॥ २ ॥

स्कंधौ पातु शनिश्चैव करौ पातु शुभप्रदः ।
वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ॥ ३ ॥

नाभिं ग्रहपतिः पातु मंदः पातु कटिं तथा ।
ऊरू ममांतकः पातु यमो जानुयुगं तथा ॥ ४ ॥

पादौ मंदगतिः पातु सर्वांगं पातु पिप्पलः ।
अंगोपांगानि सर्वाणि रक्षेन् मे सूर्यनंदनः ॥ ५ ॥

फलश्रुतिः

इत्येतत्कवचम् दिव्यं पठेत्सूर्यसुतस्य यः ।
न तस्य जायते पीडा प्रीतो भवति सूर्यजः ॥

व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोपिवा ।
कलत्रस्थो गतोवापि सुप्रीतस्तु सदा शनिः ॥

अष्टमस्थो सूर्यसुते व्यये जन्मद्वितीयगे ।
कवचं पठते नित्यं न पीडा जायते क्वचित् ॥

इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा ।
द्वादशाष्टमजन्मस्थदोषान्नाशयते सदा ।
जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ॥

इति श्री ब्रह्मांडपुराणे ब्रह्मनारदसंवादे शनिवज्रपंजर कवचं संपूर्णम्

Shani Vajrapanjara Kavacham in Other Languages

Write Your Comment

Discover more from HinduPad

Subscribe now to keep reading and get access to the full archive.

Continue reading