Patanjali Yoga Sutras in 1 (Samadhi Pada) in Hindi

अथ योगानुशासनम् ॥ १ ॥

योगश्चित्तवृत्ति निरोधः ॥ २ ॥

तदा द्रष्टुः स्वरूपे‌உवस्थानम् ॥ ३ ॥

वृत्ति सारूप्यमितरत्र ॥ ४ ॥

वृत्तयः पंचतस्यः क्लिष्टा‌உक्लिष्टाः ॥ ५ ॥

प्रमाण विपर्यय विकल्प निद्रा स्मृतयः ॥ ६ ॥

प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥

विपर्ययो मिथ्याज्ञानमतद्रूप प्रतिष्टम् ॥ ८ ॥

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥

अभाव प्रत्ययालंबना वृत्तिर्निद्रा ॥ १० ॥

अनभूत विषयासंप्रमोषः स्मृतिः ॥ ११ ॥

अभ्यास वैराग्याभ्यां तन्निरोधः ॥ १२ ॥

तत्र स्थितौ यत्नो‌உभ्यासः ॥ १३ ॥

स तु दीर्घकाल नैरंतर्य सक्तारासेवितो दृढभूमिः ॥ १४ ॥

दृष्टानुश्रविक विषय वितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १५ ॥

तत्परं पुरुषख्याते-र्गुणवैतृष्णाम् ॥ १६ ॥

वितर्क विचारानंदास्मितारूपानुगमात् संप्रज्ञातः ॥ १७ ॥

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषो‌உनयः ॥ १८ ॥

भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १९ ॥

श्रद्धा वीर्य स्मृति समाधिप्रज्ञा पूर्वकः इतरेषाम् ॥ २० ॥

तीव्रसंवेगानामासन्नः ॥ २१ ॥

मृदुमध्याधिमात्रत्वात्ततो‌உपि विशेषः ॥ २२ ॥

ईश्वरप्रणिधानाद्वा ॥ २३ ॥

क्लेश कर्म विपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४ ॥

तत्र निरतिशयं सर्वज्ञवीजम् ॥ २५ ॥

स एषः पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥

तस्य वाचकः प्रणवः ॥ २७ ॥

तज्जपस्तदर्थभावनम् ॥ २८ ॥

ततः प्रत्यक्चेतनाधिगमो‌உप्यंतरायाभावश्च ॥ २९ ॥

व्याधि स्त्यान संशय प्रमादालस्याविरति भ्रांति
दर्शनालब्धूमिकत्वानवस्थितत्वानि चित्तविक्षेपस्ते‌உंतरायाः ॥ ३० ॥

दुःख दौर्म्मनरस्यांगमेजयत्व श्वासप्रश्वासा विक्षेपसहभुवः ॥ ३१ ॥

तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥

मैत्री करुणा मुदितोपेक्षाणां सुख दुःखा पुण्यापुण्य विषयाणाम्-भावनातश्चित्तप्रसादनम् ॥ ३३ ॥

प्रच्छर्दृन विधारणाभ्यां वा प्रणस्य ॥ ३४ ॥

विषयवती वा प्रवृत्तिरूत्पन्ना मनसः स्थिति निबंधनी ॥ ३५ ॥

विशोका वा ज्योतिष्मती ॥ ३६ ॥

वीतराग विषयं वा चित्तम् ॥ ३७ ॥

स्वप्न निद्रा ज्ञानालंबनं वा ॥ ३८ ॥

यथाभिमतध्यानाद्वा ॥ ३९ ॥

परमाणु परम महत्त्वांतो‌உस्य वशीकारः ॥ ४० ॥

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृर्गयण ग्राह्येषु तत्स्थ तदंजनता समापत्तिः ॥ ४१ ॥

तत्र शब्दार्थ ज्ञान विकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ ४२ ॥

स्मृति परिशुद्धौ स्वरूप शून्येवार्थ मात्रानिर्भासा निर्वितर्का ॥ ४३ ॥

एतयैव सविचारा निर्विचार च सूक्ष्मविषया व्यारख्याता ॥ ४४ ॥

सूक्ष्म विषयत्वं चालिंगपर्यवसानम् ॥ ४५ ॥

ता एव सवीजः समाधिः ॥ ४६ ॥

निर्विचार वैशाराध्ये‌உध्यात्मप्रसादः ॥ ४७ ॥

ऋतंभरा तत्र प्रज्ञा ॥ ४८ ॥

श्रुतानुमान प्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ४९ ॥

तज्जः संस्कारो‌உन्यसंस्कार प्रतिबंधी ॥ ५० ॥

तस्यापि निरोधे सर्वनिरोधान्निर्वाजस्समाधिः ॥ ५१ ॥

इति पातंजलयोगदर्शने समाधिपादो नाम प्रथमः पादः

Patanjali Yoga Sutras in Other Languages

Write Your Comment