Patanjali Yoga Sutras in 1 (Samadhi Pada) in Hindi

अथ योगानुशासनम् ॥ १ ॥

योगश्चित्तवृत्ति निरोधः ॥ २ ॥

तदा द्रष्टुः स्वरूपे‌உवस्थानम् ॥ ३ ॥

वृत्ति सारूप्यमितरत्र ॥ ४ ॥

वृत्तयः पंचतस्यः क्लिष्टा‌உक्लिष्टाः ॥ ५ ॥

प्रमाण विपर्यय विकल्प निद्रा स्मृतयः ॥ ६ ॥

प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥

विपर्ययो मिथ्याज्ञानमतद्रूप प्रतिष्टम् ॥ ८ ॥

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥

अभाव प्रत्ययालंबना वृत्तिर्निद्रा ॥ १० ॥

अनभूत विषयासंप्रमोषः स्मृतिः ॥ ११ ॥

अभ्यास वैराग्याभ्यां तन्निरोधः ॥ १२ ॥

तत्र स्थितौ यत्नो‌உभ्यासः ॥ १३ ॥

स तु दीर्घकाल नैरंतर्य सक्तारासेवितो दृढभूमिः ॥ १४ ॥

दृष्टानुश्रविक विषय वितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १५ ॥

तत्परं पुरुषख्याते-र्गुणवैतृष्णाम् ॥ १६ ॥

वितर्क विचारानंदास्मितारूपानुगमात् संप्रज्ञातः ॥ १७ ॥

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषो‌உनयः ॥ १८ ॥

भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १९ ॥

श्रद्धा वीर्य स्मृति समाधिप्रज्ञा पूर्वकः इतरेषाम् ॥ २० ॥

तीव्रसंवेगानामासन्नः ॥ २१ ॥

मृदुमध्याधिमात्रत्वात्ततो‌உपि विशेषः ॥ २२ ॥

ईश्वरप्रणिधानाद्वा ॥ २३ ॥

क्लेश कर्म विपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४ ॥

तत्र निरतिशयं सर्वज्ञवीजम् ॥ २५ ॥

स एषः पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥

तस्य वाचकः प्रणवः ॥ २७ ॥

तज्जपस्तदर्थभावनम् ॥ २८ ॥

ततः प्रत्यक्चेतनाधिगमो‌உप्यंतरायाभावश्च ॥ २९ ॥

व्याधि स्त्यान संशय प्रमादालस्याविरति भ्रांति
दर्शनालब्धूमिकत्वानवस्थितत्वानि चित्तविक्षेपस्ते‌உंतरायाः ॥ ३० ॥

दुःख दौर्म्मनरस्यांगमेजयत्व श्वासप्रश्वासा विक्षेपसहभुवः ॥ ३१ ॥

तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥

मैत्री करुणा मुदितोपेक्षाणां सुख दुःखा पुण्यापुण्य विषयाणाम्-भावनातश्चित्तप्रसादनम् ॥ ३३ ॥

प्रच्छर्दृन विधारणाभ्यां वा प्रणस्य ॥ ३४ ॥

विषयवती वा प्रवृत्तिरूत्पन्ना मनसः स्थिति निबंधनी ॥ ३५ ॥

विशोका वा ज्योतिष्मती ॥ ३६ ॥

वीतराग विषयं वा चित्तम् ॥ ३७ ॥

स्वप्न निद्रा ज्ञानालंबनं वा ॥ ३८ ॥

यथाभिमतध्यानाद्वा ॥ ३९ ॥

परमाणु परम महत्त्वांतो‌உस्य वशीकारः ॥ ४० ॥

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृर्गयण ग्राह्येषु तत्स्थ तदंजनता समापत्तिः ॥ ४१ ॥

तत्र शब्दार्थ ज्ञान विकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ ४२ ॥

स्मृति परिशुद्धौ स्वरूप शून्येवार्थ मात्रानिर्भासा निर्वितर्का ॥ ४३ ॥

एतयैव सविचारा निर्विचार च सूक्ष्मविषया व्यारख्याता ॥ ४४ ॥

सूक्ष्म विषयत्वं चालिंगपर्यवसानम् ॥ ४५ ॥

ता एव सवीजः समाधिः ॥ ४६ ॥

निर्विचार वैशाराध्ये‌உध्यात्मप्रसादः ॥ ४७ ॥

ऋतंभरा तत्र प्रज्ञा ॥ ४८ ॥

श्रुतानुमान प्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ४९ ॥

तज्जः संस्कारो‌உन्यसंस्कार प्रतिबंधी ॥ ५० ॥

तस्यापि निरोधे सर्वनिरोधान्निर्वाजस्समाधिः ॥ ५१ ॥

इति पातंजलयोगदर्शने समाधिपादो नाम प्रथमः पादः

Patanjali Yoga Sutras in Other Languages

Write Your Comment

Discover more from HinduPad

Subscribe now to keep reading and get access to the full archive.

Continue reading