Nitya Parayana Slokas in Hindi, Lyrics of Nitya Parayana Slokas in Hindi… Nitya Parayana Slokas in Hindi | नित्य पारायण स्तोत्र
Prabhatha Slokam, Prabhatha Bhumi Sloka, Suryodaya Sloka, Snana Sloka, Bhasmadharana Sloka, Bhojana Purva Sloka, Bhojananthara Sloka, Sandhya deepa darshana Sloka, Karya prarambha sloka, Gayatri Mantra, Hanuman Stotram, Sri Rama Stotram, Ganesh Sloka, Shiva Sloka, Guru Sloka, Devi Sloka, Dakshinamurthi Sloka, Shanti Mantra, etc.. are given here.
प्रभात श्लोकं
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।
करमूले स्थिता गौरी प्रभाते करदर्शनम् ॥
प्रभात भूमि श्लोकं
समुद्र वसने देवी पर्वत स्तन मंडले ।
विष्णुपत्नि नमस्तुभ्यं, पादस्पर्शं क्षमस्वमे ॥
सूर्योदय श्लोकं
ब्रह्मस्वरूप मुदये मध्याह्नेतु महेश्वरम् ।
साहं ध्यायेत्सदा विष्णुं त्रिमूर्तिंच दिवाकरम् ॥
स्नान श्लोकं
गंगे च यमुने चैव गोदावरी सरस्वती
नर्मदे सिंधु कावेरी जलेस्मिन् सन्निधिं कुरु ॥
भस्म धारण श्लोकं
श्रीकरं च पवित्रं च शोक निवारणम् ।
लोके वशीकरं पुंसां भस्मं त्र्यैलोक्य पावनम् ॥
भोजन पूर्व श्लोकं
ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणाहुतम् ।
ब्रह्मैव तेन गंतव्यं ब्रह्म कर्म समाधिनः ॥
अहं वैश्वानरो भूत्वा प्राणिनां देह-माश्रितः ।
प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम् ॥
त्वदीयं वस्तु गोविंद तुभ्यमेव समर्पये ।
गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर ॥
भोजनानंतर श्लोकं
अगस्त्यं वैनतेयं च शमीं च बडबालनम् ।
आहार परिणामार्थं स्मरामि च वृकोदरम् ॥
संध्या दीप दर्शन श्लोकं
दीपं ज्योति परब्रह्म दीपं सर्वतमोपहम् ।
दीपेन साध्यते सर्वं संध्या दीपं नमोஉस्तुते ॥
निद्रा श्लोकं
रामं स्कंधं हनुमंतं वैनतेयं वृकोदरम् ।
शयने यः स्मरेन्नित्यम् दुस्वप्न-स्तस्यनश्यति ॥
कार्य प्रारंभ श्लोकं
वक्रतुंड महाकाय सूर्यकोटि समप्रभः ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥
गायत्रि मंत्रं
ॐ भूर्भुव॒स्सुवः॒ । तथ्स॑वि॒तुर्वरे॓ण्यं॒ ।
भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया॓त् ॥
हनुम स्तोत्रं
मनोजवं मारुत तुल्यवेगं जितेंद्रियं बुद्धिमतां वरिष्टम् ।
वातात्मजं वानरयूध मुख्यं श्रीरामदूतं शिरसा नमामि ॥
बुद्धिर्बलं यशोधैर्यं निर्भयत्व-मरोगता ।
अजाड्यं वाक्पटुत्वं च हनुमत्-स्मरणाद्-भवेत् ॥
श्रीराम स्तोत्रं
श्री राम राम रामेती रमे रामे मनोरमे
सहस्रनाम तत्तुल्यं राम नाम वरानने
गणेश स्तोत्रं
शुक्लां बरधरं विष्णुं शशिवर्णम् चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशांतये ॥
अगजानन पद्मार्कं गजानन महर्निशम् ।
अनेकदंतं भक्ताना-मेकदंत-मुपास्महे ॥
शिव स्तोत्रं
त्र्यं॑बकं यजामहे सुग॒ंधिं पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बंध॑नान्-मृत्यो॑र्-मुक्षीय॒ माஉमृता॓त् ॥
गुरु श्लोकं
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ॥
सरस्वती श्लोकं
सरस्वती नमस्तुभ्यं वरदे कामरूपिणी ।
विद्यारंभं करिष्यामि सिद्धिर्भवतु मे सदा ॥
या कुंदेंदु तुषार हार धवला, या शुभ्र वस्त्रावृता ।
या वीणा वरदंड मंडित करा, या श्वेत पद्मासना ।
या ब्रह्माच्युत शंकर प्रभृतिभिर्-देवैः सदा पूजिता ।
सा माम् पातु सरस्वती भगवती निश्शेषजाड्यापहा ।
लक्ष्मी श्लोकं
लक्ष्मीं क्षीरसमुद्र राज तनयां श्रीरंग धामेश्वरीम् ।
दासीभूत समस्त देव वनितां लोकैक दीपांकुराम् ।
श्रीमन्मंध कटाक्ष लब्ध विभव ब्रह्मेंद्र गंगाधराम् ।
त्वां त्रैलोक्यकुटुंबिनीं सरसिजां वंदे मुकुंदप्रियाम् ॥
वेंकटेश्वर श्लोकं
श्रियः कांताय कल्याणनिधये निधयेஉर्थिनाम् ।
श्री वेंकट निवासाय श्रीनिवासाय मंगलम् ॥
देवी श्लोकं
सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यंबके देवि नारायणि नमोस्तुते ॥
दक्षिणामूर्ति श्लोकं
गुरवे सर्वलोकानां भिषजे भवरोगिणाम् ।
निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥
अपराध क्षमापण स्तोत्रं
अपराध सहस्राणि, क्रियंतेஉहर्निशं मया ।
दासोஉय मिति मां मत्वा, क्षमस्व परमेश्वर ॥
करचरण कृतं वा कर्म वाक्कायजं वा
श्रवण नयनजं वा मानसं वापराधम् ।
विहित मविहितं वा सर्वमेतत् क्षमस्व
शिव शिव करुणाब्धे श्री महादेव शंभो ॥
कायेन वाचा मनसेंद्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥
बौद्ध प्रार्थन
बुद्धं शरणं गच्छामि
धर्मं शरणं गच्छामि
संघं शरणं गच्छामि
शांति मंत्रं
असतोमा सद्गमया ।
तमसोमा ज्योतिर्गमया ।
मृत्योर्मा अमृतंगमया ।
ॐ शांतिः शांतिः शांतिः
सर्वे भवंतु सुखिनः सर्वे संतु निरामयाः ।
सर्वे भद्राणि पश्यंतु मा कश्चिद्दुःख भाग्भवेत् ॥
ॐ स॒ह ना॑ववतु । स॒ नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॓ ॥
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥
विशेष मंत्राः
पंचाक्षरि – ॐ नमश्शिवाय
अष्टाक्षरि – ॐ नमो नारायणाय
द्वादशाक्षरि – ॐ नमो भगवते वासुदेवाय