श्रीभैरव उवाच
यो देवदेवो भगवान् भास्करो महसां निधिः ।
गयत्रीनायको भास्वान् सवितेति प्रगीयते ॥ १ ॥
तस्याहं कवचं दिव्यं वज्रपंजरकाभिधम् ।
सर्वमंत्रमयं गुह्यं मूलविद्यारहस्यकम् ॥ २ ॥
सर्वपापापहं देवि दुःखदारिद्र्यनाशनम् ।
महाकुष्ठहरं पुण्यं सर्वरोगनिवर्हणम् ॥ ३ ॥
सर्वशत्रुसमूहघ्नं सम्ग्रामे विजयप्रदम् ।
सर्वतेजोमयं सर्वदेवदानवपूजितम् ॥ ४ ॥
रणे राजभये घोरे सर्वोपद्रवनाशनम् ।
मातृकावेष्टितं वर्म भैरवानननिर्गतम् ॥ ५ ॥
ग्रहपीडाहरं देवि सर्वसंकटनाशनम् ।
धारणादस्य देवेशि ब्रह्मा लोकपितामहः ॥ ६ ॥
विष्णुर्नारायणो देवि रणे दैत्यांजिष्यति ।
शंकरः सर्वलोकेशो वासवोஉपि दिवस्पतिः ॥ ७ ॥
ओषधीशः शशी देवि शिवोஉहं भैरवेश्वरः ।
मंत्रात्मकं परं वर्म सवितुः सारमुत्तमम् ॥ ८ ॥
यो धारयेद् भुजे मूर्ध्नि रविवारे महेश्वरि ।
स राजवल्लभो लोके तेजस्वी वैरिमर्दनः ॥ ९ ॥
बहुनोक्तेन किं देवि कवचस्यास्य धारणात् ।
इह लक्ष्मीधनारोग्य-वृद्धिर्भवति नान्यथा ॥ १० ॥
परत्र परमा मुक्तिर्देवानामपि दुर्लभा ।
कवचस्यास्य देवेशि मूलविद्यामयस्य च ॥ ११ ॥
वज्रपंजरकाख्यस्य मुनिर्ब्रह्मा समीरितः ।
गायत्र्यं छंद इत्युक्तं देवता सविता स्मृतः ॥ १२ ॥
माया बीजं शरत् शक्तिर्नमः कीलकमीश्वरि ।
सर्वार्थसाधने देवि विनियोगः प्रकीर्तितः ॥ १३ ॥
अथ सूर्य कवचं
ॐ अम् आम् इम् ईं शिरः पातु ॐ सूर्यो मंत्रविग्रहः ।
उम् ऊं ऋं ॠं ललाटं मे ह्रां रविः पातु चिन्मयः ॥ १४ ॥
ऌं ॡम् एम् ऐं पातु नेत्रे ह्रीं ममारुणसारथिः ।
ॐ औम् अम् अः श्रुती पातु सः सर्वजगदीश्वरः ॥ १५ ॥
कं खं गं घं पातु गंडौ सूं सूरः सुरपूजितः ।
चं छं जं झं च नासां मे पातु यार्म् अर्यमा प्रभुः ॥ १६ ॥
टं ठं डं ढं मुखं पायाद् यं योगीश्वरपूजितः ।
तं थं दं धं गलं पातु नं नारायणवल्लभः ॥ १७ ॥
पं फं बं भं मम स्कंधौ पातु मं महसां निधिः ।
यं रं लं वं भुजौ पातु मूलं सकनायकः ॥ १८ ॥
शं षं सं हं पातु वक्षो मूलमंत्रमयो ध्रुवः ।
लं क्षः कुक्ष्सिं सदा पातु ग्रहाथो दिनेश्वरः ॥ १९ ॥
ङं ञं णं नं मं मे पातु पृष्ठं दिवसनायकः ।
अम् आम् इम् ईम् उम् ऊं ऋं ॠं नाभिं पातु तमोपहः ॥ २० ॥
ऌं ॡम् एम् ऐम् ॐ औम् अम् अः लिंगं मेஉव्याद् ग्रहेश्वरः ।
कं खं गं घं चं छं जं झं कटिं भानुर्ममावतु ॥ २१ ॥
टं ठं डं ढं तं थं दं धं जानू भास्वान् ममावतु ।
पं फं बं भं यं रं लं वं जंघे मेஉव्याद् विभाकरः ॥ २२ ॥
शं षं सं हं लं क्षः पातु मूलं पादौ त्रयितनुः ।
ङं ञं णं नं मं मे पातु सविता सकलं वपुः ॥ २३ ॥
सोमः पूर्वे च मां पातु भौमोஉग्नौ मां सदावतु ।
बुधो मां दक्षिणे पातु नैऋत्या गुररेव माम् ॥ २४ ॥
पश्चिमे मां सितः पातु वायव्यां मां शनैश्चरः ।
उत्तरे मां तमः पायादैशान्यां मां शिखी तथा ॥ २५ ॥
ऊर्ध्वं मां पातु मिहिरो मामधस्तांजगत्पतिः ।
प्रभाते भास्करः पातु मध्याह्ने मां दिनेश्वरः ॥ २६ ॥
सायं वेदप्रियः पातु निशीथे विस्फुरापतिः ।
सर्वत्र सर्वदा सूर्यः पातु मां चक्रनायकः ॥ २७ ॥
रणे राजकुले द्यूते विदादे शत्रुसंकटे ।
संगामे च ज्वरे रोगे पातु मां सविता प्रभुः ॥ २८ ॥
ॐ ॐ ॐ उत ॐउऔम् ह स म यः सूरोஉवतान्मां भयाद्
ह्रां ह्रीं ह्रुं हहहा हसौः हसहसौः हंसोஉवतात् सर्वतः ।
सः सः सः सससा नृपाद्वनचराच्चौराद्रणात् संकटात्
पायान्मां कुलनायकोஉपि सविता ॐ ह्रीं ह सौः सर्वदा ॥ २९ ॥
द्रां द्रीं द्रूं दधनं तथा च तरणिर्भांभैर्भयाद् भास्करो
रां रीं रूं रुरुरूं रविर्ज्वरभयात् कुष्ठाच्च शूलामयात् ।
अम् अम् आं विविवीं महामयभयं मां पातु मार्तंडको
मूलव्याप्ततनुः सदावतु परं हंसः सहस्रांशुमान् ॥ ३०॥
अथ फलशृतिः
इति श्रीकवचं दिव्यं वज्रपंजरकाभिधम् ।
सर्वदेवरहस्यं च मातृकामंत्रवेष्टितम् ॥ ३१ ॥
महारोगभयघ्नं च पापघ्नं मन्मुखोदितम् ।
गुह्यं यशस्करं पुण्यं सर्वश्रेयस्करं शिवे ॥ ३२ ॥
लिखित्वा रविवारे तु तिष्ये वा जन्मभे प्रिये ।
अष्टगंधेन दिव्येन सुधाक्षीरेण पार्वति ॥ ३३ ॥
अर्कक्षीरेण पुण्येन भूर्जत्वचि महेश्वरि ।
कनकीकाष्ठलेखन्या कवचं भास्करोदये ॥ ३४ ॥
श्वेतसूत्रेण रक्तेन श्यामेनावेष्टयेद् गुटीम् ।
सौवर्णेनाथ संवेष्ठ्य धारयेन्मूर्ध्नि वा भुजे ॥ ३५ ॥
रणे रिपूंजयेद् देवि वादे सदसि जेष्यति ।
राजमान्यो भवेन्नित्यं सर्वतेजोमयो भवेत् ॥ ३६ ॥
कंठस्था पुत्रदा देवि कुक्षिस्था रोगनाशिनी ।
शिरःस्था गुटिका दिव्या राकलोकवशंकरी ॥ ३७ ॥
भुजस्था धनदा नित्यं तेजोबुद्धिविवर्धिनी ।
वंध्या वा काकवंध्या वा मृतवत्सा च यांगना ॥ ३८ ॥
कंठे सा धारयेन्नित्यं बहुपुत्रा प्रजायये ।
यस्य देहे भवेन्नित्यं गुटिकैषा महेश्वरि ॥ ३९ ॥
महास्त्राणींद्रमुक्तानि ब्रह्मास्त्रादीनि पार्वति ।
तद्देहं प्राप्य व्यर्थानि भविष्यंति न संशयः ॥ ४० ॥
त्रिकालं यः पठेन्नित्यं कवचं वज्रपंजरम् ।
तस्य सद्यो महादेवि सविता वरदो भवेत् ॥ ४१ ॥
अज्ञात्वा कवचं देवि पूजयेद् यस्त्रयीतनुम् ।
तस्य पूजार्जितं पुण्यं जन्मकोटिषु निष्फलम् ॥ ४२ ॥
शतावर्तं पठेद्वर्म सप्तम्यां रविवासरे ।
महाकुष्ठार्दितो देवि मुच्यते नात्र संशयः ॥ ४३ ॥
निरोगो यः पठेद्वर्म दरिद्रो वज्रपंजरम् ।
लक्ष्मीवांजायते देवि सद्यः सूर्यप्रसादतः ॥ ४४ ॥
भक्त्या यः प्रपठेद् देवि कवचं प्रत्यहं प्रिये ।
इह लोके श्रियं भुक्त्वा देहांते मुक्तिमाप्नुयात् ॥ ४५ ॥
इति श्रीरुद्रयामले तंत्रे श्रीदेविरहस्ये
वज्रपंजराख्यसूर्यकवचनिरूपणं त्रयस्त्रिंशः पटलः