Govindaashtakam in Hindi

मृत्स्नामत्सीहेति यशोदाताडनशैशव संत्रासम् ।
व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् ।
लोकत्रयपुरमूलस्तंभं लोकालोकमनालोकम् ।
लोकेशं परमेशं प्रणमत गोविंदं परमानंदम् ॥ २ ॥

त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नम् ।
कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।
वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम् ।
शैवं केवलशांतं प्रणमत गोविंदं परमानंदम् ॥ ३ ॥

गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालम् ।
गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ।
गोभिर्निगदित गोविंदस्फुटनामानं बहुनामानम् ।
गोपीगोचरदूरं प्रणमत गोविंदं परमानंदम् ॥ ४ ॥

गोपीमंडलगोष्ठीभेदं भेदावस्थमभेदाभम् ।
शश्वद्गोखुरनिर्धूतोद्गत धूलीधूसरसौभाग्यम् ।
श्रद्धाभक्तिगृहीतानंदमचिंत्यं चिंतितसद्भावम् ।
चिंतामणिमहिमानं प्रणमत गोविंदं परमानंदम् ॥ ५ ॥

स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढम् ।
व्यादित्संतीरथ दिग्वस्त्रा दातुमुपाकर्षंतं ताः
निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरंतस्थम् ।
सत्तामात्रशरीरं प्रणमत गोविंदं परमानंदम् ॥ ६ ॥

कांतं कारणकारणमादिमनादिं कालधनाभासम् ।
कालिंदीगतकालियशिरसि सुनृत्यंतम् मुहुरत्यंतम् ।
कालं कालकलातीतं कलिताशेषं कलिदोषघ्नम् ।
कालत्रयगतिहेतुं प्रणमत गोविंदं परमानंदम् ॥ ७ ॥

बृंदावनभुवि बृंदारकगणबृंदाराधितवंदेहम् ।
कुंदाभामलमंदस्मेरसुधानंदं सुहृदानंदम् ।
वंद्याशेष महामुनि मानस वंद्यानंदपदद्वंद्वम् ।
वंद्याशेषगुणाब्धिं प्रणमत गोविंदं परमानंदम् ॥ ८ ॥

गोविंदाष्टकमेतदधीते गोविंदार्पितचेता यः ।
गोविंदाच्युत माधव विष्णो गोकुलनायक कृष्णेति ।
गोविंदांघ्रि सरोजध्यानसुधाजलधौतसमस्ताघः ।
गोविंदं परमानंदामृतमंतस्थं स तमभ्येति ॥

इति श्री शंकराचार्य विरचित श्रीगोविंदाष्टकं समाप्तं

रचन: आदि शंकराचार्य

Govindaashtakam in Other Languages

"Hindupad Recommends you to Buy Pure Puja Items Online from Om Bhakti". Avail 20% Flat discount on all Puja items.

Write Your Comment